SANSKRIT CLASS 10TH QUESTION PAPER 2019 (ICSE)

ICSE/ISC Banner

SANSKRIT 

(Second Language) 

SECTION—A

प्रश्न: 1 अधोलिखितेषु विषयेषु एकं विषयम् आधृत्य 150-200 शब्दपरिमितं एकं लघुनिबन्धं संस्कृतभाषया लिखत –

 (i)शरीरमाद्यं खलु धर्मसाधनम् इत्युक्त्यनुसारं आरोग्यस्य महत्त्वं वर्णयत। 

 (ii) राष्ट्रियोत्सवेषु गणराज्योत्सवस्य आचरणम्। 

 (iii) समूहमाध्यमानां विषयमधिकृत्य निबन्धमेकं लिखत। 

 (iv) संस्कृतं ज्ञानस्य विज्ञानस्य च आकरम् अस्ति इति विषये प्रबन्धं लिखत। 

(v) प्रस्तुतचित्रं आधृत्य संस्कृतभाषया एकं लघुनिबन्धं लिखत –

प्रश्न: 2 अधोलिखितयोः विषययोः एकं विषयं आधृत्य संस्कृतभाषया पत्रं लिखत –

(i)अधिकवृष्टिकारणतः भवतः/भवत्याः प्रदेशे रोगभीतिः स×जाता। तन्निवारणार्थम् आरोग्याधिकारिणं प्रति पत्रं लिखत। 

(ii) भवतः/भवत्याः जन्मदिनस्य आह्नानं कृत्वा मित्रं प्रति पत्रं लिखत।

 

प्रश्न: 3 अधोलिखितम् अनुच्छेदं पठित्वा तस्याधोलिखितानां प्रश्नानामुत्तराणि यथासंभवं स्वशब्देषु संस्कृतभाषया देयानि :-

          पुरा प्रकाशवीरः नाम राजा धर्मपुरि राज्ये शासनं करोति स्म। धर्मपुरि राज्यं परितः सान्द्राणि अरण्यानि आसन्। तत्र अनेके वनमृगाः वसन्ति स्म। मृगयां कर्तुं महाराजस्य महती आसक्तिरासीत्। अतः प्रजाः अपि प्रतिदिनम् अरण्यं गत्वा वनमृगान् मारयन्ति स्म। तेन वनमृगाः सर्वे व्याकुलाः आसन्। 

         एकदा कश्चन महान् व्याघ्रः तद्वनमागतः। एतेन भीताः जनाः राज्ञः समीपं गत्वा ‘‘प्रभो सः व्याघ्रः वनगतानां जनानाम् उपरि आक्रमणं कृत्या मारयति। अतः कृपया व्याघ्रात् अस्मान् रक्षतु’’ इति निवेदितवन्तः। 

          परेद्युः मृगयावेषेण महाराजः अरण्यं गत्वा सर्वत्र व्याघ्रस्य अन्वेषणं कृतवान्। ‘रात्रौ जलं पातुम् अयं व्याघ्रः नदीम् आगच्छत्येव। तदा तं मारयिष्यामि’ इति निश्चित्य समीपस्थं वृक्षमेकम् आरुह्य उपाविशत्। कि×िचत् समयानन्तरं एकः भयंकरः व्याघ्रः नदीसमीपम् आगतः। यदा राजा तं मारयितुम् उद्यतः तदैव व्याघ्रः अवदत् कृ ‘‘हे राजन् ! तिष्ठतु, भवान् किमर्थं मां मारयितुम् उद्यतः अस्ति ? मया कः अपराधः कृतः ?’’ इति। 

           महाराजः अकथयत् कृ ‘‘हे व्याघ्र ! त्वया मम राज्यस्य अनेकाः प्रजाः मारिताः। मम प्रजाजनाः त्वत्तः भीताः सन्ति। तेषां रक्षणं मम कर्त्तव्यमस्ति। अतः तेषां रक्षणार्थम् अहं त्वां मारयिष्यामि’’ इति। महाराजस्य वचनं श्रुत्वा व्याघ्रः हसित्वा अवोचत् कृ महाराज ! यं धर्मं भवान् पालयन्नस्ति तमेव धर्मम् अहमपि पालयन्नस्मि। अहम् अस्य वनस्य अधिपः। वनमृगाः मम प्रजाः सन्ति। तेषां रक्षणं मम धर्मः’’ इति। 

             व्याघ्रस्य वचनं श्रुत्वा लज्जितः राजा अ×जलिं बद्धवा कृ ‘‘हे व्याघ्रमहोदय ! त्वं मम अज्ञानं दूरीकृत्य ज्ञानोदयं कारितवान्। इतःपरं वनस्य वनमृगाणां च रक्षणमपि अहं करिष्यामि’’ इति वचनं दत्वा ‘‘कृपया मां क्षमस्य’’ इति उक्तवान्। 

(i)कुतः वनमृगाः व्याकुलाः अभवन् ? 

(ii) प्रजाः महाराजस्य समीपं गत्वा किं निवेदितवन्तः ? 

(iii) व्याघ्रः हसित्वा राजानं किम् अवोचत् ? 

(iv) राजा किं विचिन्त्य वृक्षमारुह्य उपाविशत् ? 

(v) महाराजः व्याघ्राय किं वचनं दत्तवान् ? 

 

प्रश्न: 4 अधोलिखितान् प्रश्नान् यथानिर्देशम् उत्तरत:-

(i)वाच्यपरिवर्तनं कुरुत:कृ 

    (अ) तेन महाकाव्यं पठ्यते। 

    (आ) बालिका धावति। 

(ii) प्रकृति-प्रत्ययविभजनं कृत्वा लिखत :-

     (अ) नेतुम् 

     (आ) वन्दमान 

(iii) सन्धि-विच्छेदं कुरुत :-

     (अ) महर्षिः 

      (आ) अग्निर्जायते 

(iv) केवलं समासविग्रहं कुरुत :-

     (अ) सीतारामौ 

     (आ) अनुचितम्। 

(v) संयोज्य लिखत :-

       (अ) द्रुपदस्य अपत्यं स्त्री ……………। 

       (आ) अस्ति देवः इति मतिः यस्य सः ………………..। 

(vi) अनुनासिक वर्णान् लिखत। 

(vii)लृट् लकारे परिवर्तनं कुरुत :-

       (अ) छात्रः विद्यालयं गच्छति। 

       (आ) गुरुः अज्ञानं परिहरति। 

(viii) वाक्यदोषान् परिहरत :-

      (अ) स्वस्ति प्रजानाम् 

      (आ) आराध्या आदित्यस्य सह क्रीडति। 

SECTION—B

संस्कृत वाणी-भाग-4 

महाकविः  कालिदासः 

प्रश्न: 5 अधोलिखितम् अवतरणं पठित्वा तस्याधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया देयानि :-

            यद्यपि कालिदासः प्रख्यातः तथापि तस्य देशकालादीनां विषये कि×िचदपि न ज्ञायते। इदं अस्माकं दौर्भाग्यम्। कालिदासः अस्माकं कविः इति भारतदेशस्य सर्वेषां जनपदानां जनाः वदन्ति। सः भारतदेशे सर्वत्र स×चारं कृत्वा उज्जयिन्यां दीर्घकालम् अवसत् इति ऊहा अस्ति। 

(i)कालिदासः किमिति गौरवं प्राप्तवान् ? किमिति प्रसिद्धः च। 

(ii) कालिदासः कस्य नृपस्य आस्थाने आसीत् ? तेन सह स्थितानाम् इतर मौक्तिकानां नामानि कानि ? 

(iii) पुरा कवीनां गणनाप्रसंगे 

                कनिष्ठिकाधिष्ठित-कालिदासः। 

    अद्यापि तत्तुल्यकवेरभावात् 

               अनामिका सार्थवती बभूव।। 

    अस्य श्लोकस्य तात्पर्यं लिखत। 

(iv) कालिदासस्य कृतिषु के के अंशाः भवन्ति ? 

छात्रशिक्षणम् 

प्रश्न:  6 अधोलिखितम् अवतरणं पठित्वा तस्याधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया देयानि :-

         आत्मसंयमरहितं शिक्षणं शिक्षणं न भवति। या विद्या मानवं दयालुं परोपकारिणं करोति सा एव सद्विद्या। शिक्षणस्य मुख्योद्देश्यं स्वार्थहितचिन्तकस्य संकुचित-मनोभावयुतस्य मानवकुलस्य निर्माणं नास्ति। यः मनुष्यः सम्यक् शिक्षणं गृहीतवान् तस्मिन् स्वतः प्रवर्तितं सानुकम्पं, सर्वेभ्यः जनेभ्यः अवधानं प्रवहति अविरोधेन। 

(i)किं यथार्थशिक्षणमिति सज्जनानाम् अभिप्रायः ? 

(ii) शिक्षणस्य लक्षणं किम् ? सम्यक् शिक्षणं छात्रेषु किं जनयति ? 

(iii) छात्राणां दैनन्दिक-जीवने के के गुणाः वर्धनीयाः ? शिक्षणस्य गुरुतरं कार्यं च किम् ? 

(iv) अधुना कस्याः आवश्यकता अस्ति। तदर्थं कै: प्रयत्नः करणीयः ? 

अमृतधारा 

प्रश्न: 7 अधोलिखितं अवतरणं पठित्वा तस्याधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया देयानि :-

                संस्कृतसाहित्ये सुभाषितानां वैशिष्ट्यपूर्णं स्थानं विद्यते। रामायण-महाभारत-पुराण-काव्यादिषु अन्येषु ग्रन्थेषु च तत्र-तत्र सुभाषितानि कविभिः विनिवेशितानि। ईदृश-सुभाषितानां पृथक् संग्रहोऽपि तैः कृतः। 

(i)नरः स्वस्य चरितं कथम् अवेक्षेत ? 

(ii) व्याधितस्यार्थहीनस्य देशान्तरगतस्य च। 

      नरस्य शोकदग्धस्य सुहृद्दर्शनमौषधम्।। 

      अस्य श्लोकस्य तात्पर्यं लिखत। 

(iii) कुलीनः शीलगुणान् न त्यजति इति सुभाषिते कथं निरूपितम् ? 

(iv) वाग्भूषणमेव भूषणमिति श्लोके कथं निरूपितम् अस्ति ? 

संस्कृतवाणीकृभाग-5 

प्रार्थना 

प्रश्न: 8 अधोलिखितं अवतरणं पठित्वा तस्याधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया देयानि :-

           अ जनानन्दनं वीरं जानकी शोकनाशनम्। 

           कपीशम् अक्षहन्तारं वन्दे लङ्काभयङ्करम्।। 

          अनन्तनामधेयाय सर्वाकारविधायिने। 

          समस्तमन्त्रवाच्याय, विश्वैकपतये नमः।। 

(i)वक्रतुण्डः कीदृशः अस्ति ? सः किं करोति ? 

(ii) मातापिता गुरुः चैव स्वभावात् त्रितयं हितम्। 

      ग हीत्वा वचनं तेषां, सुखी भवति मानवः।। 

      अस्य श्लोकस्य तात्पर्यं लिखत। 

(iii) इदं सर्वं केन व्याप्तमस्ति ? मा गृधः कस्यस्वित् धनं कुतः ? 

(iv) एकः एव देवः सः सर्वेषां साक्षी भवति ? विवृणुत। 

परोपकारार्थमिदं शरीरम् 

प्रश्न: 9 अधोलिखितं अवतरणं पठित्वा तस्याधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया देयानि :-

                 पुरा जनसंख्या न्यूना आसीत्। वनानां संख्या अधिका आसीत्। तेषु वनेषु अनेके क्रूराः मृगाः वसन्ति स्म। एकस्मिन् वने एकः लुब्धकः आसीत्। सः मृगान् गृहीत्वा तेषां मांसं चर्मादिकं विक्रीय धनार्जनं कुर्वन् आसीत्। 

(i)परोपकारिणां स्वभावं उदाहरणसहितं विवृणुत। 

(ii) लुब्धकः किमर्थं वृक्षम् आरुह्य उपाविशत् ? 

(iii) परिश्रान्तं लुब्धकं दृष्ट्वा वृकः किम् अवदत् ? 

(iv) व्याधस्य प्रतीक्षायां स्थितः शार्दूलः वृकं प्रति किम् अवदत् ? 

अमृतवाहिनी 

प्रश्न: 10 अधोलिखितं अवतरणं पठित्वा तस्याधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया देयानि :-

          सुभाषितं नाम सुष्ठुभाषितम्। संस्कृतवाङ्मयस्य सुभाषितानि सुप्रसिद्धानि सन्ति। 

(i)कः साक्षात्पशुः ? पशूनां भागधेयं किम् ? 

(ii) कीदृशीं विद्यां कीदृशं धनं च अनुपयुक्तम् इति परिगणयन्ति ? 

(iii) ‘‘सन्तोषः एव पुरुषस्य परं निधानम्’’ श्लोकानुसारं विवृणुत। 

(iv) मनसि वचसि काये पुण्यपीयूषपूर्णाः 

       त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः 

       परगुणपरमाणून् पर्वतीकृत्यनित्यं 

       निजहृदि विकसन्तः सन्ति सन्तः कियन्तः।। 

Leave a Reply

×

Hello!

Click one of our representatives below to chat on WhatsApp or send us an email to info@vidhyarthidarpan.com

×