/ +91 9829211106 info@vidhyarthidarpan.com
Welcome to Vidhyarthi Darpan
MATHS CLASS 10TH QUESTION PAPER 2018 (RBSE)
January 24, 2020
SCIENCE CLASS 10TH QUESTION PAPER 2018 (RBSE)
January 24, 2020

RAJASTHAN BOARD EXAMINATION, 2018

CLASS 10th

संस्कृतम्

समय: 3¼ घंटे                                        अधिकतम अंक: 80


परीक्षाओं के लिए सामान्य निर्देश:-

1. सभी प्रश्न करने अनिवार्य हैं। 

2. सभी प्रश्नों के अंक प्रश्न के सामने अंकित हैं। 


 

(1). अधोलिखितस्य पाठ्यपुस्तकात् पठितगद्यांशस्य सप्रसङ्ग् हिन्दी भाषयाम्  अनुवादं लिखत्।

अनन्तरं सर्वे जालेन बद्धाः बभूवुः। ततो यस्य वचनात्  तत्र अवलम्बितातं सर्वे तिरस्कुर्वन्ति। तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच  “नायमस्य दोषः। विपत्काले विस्मय एव कापुरुषलक्षणंम्। तदत्र धैर्यमवलम्ब्य प्रतिकारश्चिन्त्यताम् । इदानीमप्येवं क्रियताम् । सवैरेकचित्तिमूय जालमादायोडीयातम्।” इति विचिन्त्य सर्वे पक्षिणः जालमादायोत्पतिताः। अनन्तरं  स व्याघ्रः सुदुरज्जालापहारकान् तान् अवलोक्य पश्चात् धावनम् अकरोत्।

अथवा 

तेन पुनः सैन्यशक्तिसङ्ग्रहकार्यम् आरब्धम् , महासैन्यं सः रचयामास । तया सेनया च मुगलशासनं प्रति स्वातन्त्र्ययुद्धं  प्रारभत। स्वराज्यहस्तच्युतान् अनेकभागान् पुनः हस्तगतान् कृतवान्। तेषु मोही , गोगुन्दा , उदयपुरम् इत्यादयः मुख्याः आसन्। स्वराज्ये शान्तिं संस्थाप्य “चावण्ड ” नामकं स्थानं स्वराजधानिम् अकरोत्। तस्मिन् काले  “चावण्ड ” स्थानं स्थापत्यकलायाः, ललितकलायाः, वाणिज्यस्य , विधायाश्च् प्रमुखकेन्द्रम् आसीत्। 

 

(2). अधोलिखितस्य पाठ्यपुस्तकात् पठितपद्यांशस्य सप्रसङ्ग् हिन्दी भाषयाम्  अनुवादं लिखत्। 

विधा विवादाय धनं मदाय, 

शक्तिः परेषां परिपीडनाय। 

खलस्य साधोर्विपरीतमेतत् , 

ज्ञानाय दानाय च रक्षणाय 

अथवा  

वर्षागमे चारुमरुं विहाय

कवान्यत्र कस्यापि रमेत चित्तम्।

सरःसु वर्षासमयेऽपि यस्मिन् , 

शरत् – प्रसन्नं सलिलं चकास्ति।। 

 

(3). अधोलिखितस्य पाठ्यपुस्तकात् पठितपद्यांशस्य सप्रसङ्ग् संस्कृते व्याख्या कार्या- 

न जातु दुःखं गणनीयम् 

न च निजसोख्यं मननीयम्।

कार्य-क्षेत्रे त्वरणीयम्

लोकहितं मम करणीयम्।।

अथवा 

अजरामरवत् प्राज्ञो विधामर्थ च चिन्तयेत्।

गृहीत इव केशेषु मृत्युना धर्ममाचरेत्।।

 

(4). अधोलिखितस्य पाठ्यपुस्तकात् पठितपद्यांशस्य सप्रसङ्ग् संस्कृते व्याख्या कार्या- 

प्रथमा – वत्स एनं बालमृगेन्द्रं मुञ्च। अपरं ते क्रीडनकं दास्यामि। 

बालः – कुत्र , देह्येतत्  (इति हस्तं प्रसारयति) 

द्वितीया – सुव्रते , शक्य एष वाचामात्रेण विरमयितुम्। गच्छ तत् मदीय उटजे मार्कण्डेयस्य ऋसिकुमारस्य वर्णिचित्रितो मृतिकामयुरस्तिस्ष्थिति, तमस्योपहर।

प्रथमा – तथा। (इति निष्कान्ता) 

अथवा 

सर्वदारः – (तथा निपुणं निरीक्षमाणः) महाराज ! मेवाड-मन्त्री भामाशाहः इव कश्चन आगच्छ्न् प्रतीयते।

प्रतापः – हु, किम् उक्तम् ! भामाशाहः ? तस्य कथम् इदं ज्ञातम् अभूत ? अस्तु तावत्, प्रतिक्षामहे तम्। 

(भामाशाहः धनराशिग्रन्थिम् आदाय आयाति) 

भामाशाहः – (प्रणम्य) अन्नदातः! सेवकं संत्यज्य क्व प्रस्थियते श्रीमता ? 

 

(5). अधोलिखितेषु अष्टसु केषाञ्चन षट् प्रश्नानामुत्तराणि संस्कृतमाध्ययेन लिखित – 

(i) “जयसुरभारति !” इति पाठस्य रचयिता कः अस्ति ? 

(ii) “संघे शक्तिः” इति पाठनुसारेण “अद्य प्रातरेव अनिष्ट्दर्शन जातम्, न जाने किम् अनभिमतं दर्शयिष्यति।”  इति कः कथितवान् ? 

(iii) “स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः” इति कथनं कस्य कृतेः अस्ति ? 

(iv) महाराणाप्रतापस्य राज्याभिषेकः कस्मिन् ग्रामे अभवत् ? 

(v) मरुप्रदेशे व्याप्तानां मृत्युभोजनं, बालविवाहः, नार्युत्पिडनं, यौतुकप्रथादिनां कुप्रथानां  सदेव कः सचेष्टः आसीत् ? 

(vi) “मरु सौन्देर्यम्” इति पाठानुसारेण ‘शुष्कोऽपि नित्यं सरसः स देशः’ इति केन प्रशंसितः ?

(vii) महाराजः सूरजमल्लः कस्य ज्येष्ठपुत्रः आसीत् ?

(viii) ‘यो यद्वपति बीजं हि लभते तादृशं फलम्’ इति पाठानुसारेण कथं तेषा दायादानां मया प्रत्यपकारः कर्तव्यः इति केन चिन्तितम् ?

 

निर्देश:- प्रश्न संख्या 6 – 9 पर्यन्तं रेखाड्डितपदमाधृत्य प्रश्न निर्माणं कुरूत-

6. अहिंसा परमों धर्मः ।

 

7. पृथिव्यां त्रीणि रत्नानि सन्ति।

 

8. एतेन मम न अपमानः

 

9. नायकेषु अन्यतमः सूरजमल्लः आसीत्।

 

10. प्रश्नपत्रादतिरिच्य स्वपाठ्यपुस्तकात् श्लोकद्वंय लिखत – 

 

11. अधोलिखितं गंद्याशं पठित्वा एतदाधारित – प्रश्नानाम् उत्तराणि यथानिर्देशं लिखत: 

दैनन्दिनव्यवहारे यः सहायतां करोति सः बन्धुः भवति। यदि विश्वे सर्वत्र एतादृशः भावः भवेत् तदा विश्वबन्धुत्वं सम्भवति। परन्तु अधुना संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति। मानवाः परस्परं न विश्वसन्ति। ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति। संसारे सर्वत्र विद्वेषस्य शत्रुतायाः हिंसायाः च भावना दृश्यते, देशानां विकासः अपि अवरूद्धः भवति। इयं महती आवश्यकता वर्तते यत् एकः देशः अपरेण देशेन यह निर्मलेन हदयेन बन्धुतायाः व्यवहारं कुर्यात्। विश्वस्य जनेषु इयं भावना आवश्यकी। ततः विकसिताविकसितयोः देशयोः मध्ये स्वस्था स्पर्धा भविष्यति। सर्वे देशा ज्ञानविज्ञानयोः क्षेत्रे मैत्रीभावनया सहयोगेने च समृद्धिं प्राप्तुं समर्था भविष्यन्ति। सूर्यचन्द्रयोः प्रकाशः सर्वत्र समानरूपेण प्रसरति। प्रकृतिः अति सर्वेषु समत्वेन व्यवहरति। तस्मात् अस्माभिः सर्वैः परस्परं वैर- भावम्् अपहाय विश्वबन्धुत्वं स्थापनीयम्।

(क) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।

(ख) यथानिर्देशं प्रश्नानाम् उत्तराणि लिखत।

(i) दैनन्दिन – व्यवहारे बन्धुः कः भवति ?

(ii) समर्थाः देशाः कान्प्रति उपेक्षाभावं प्रदर्शयन्ति ?

(iii) अधुना संसारे कस्य वातावरणम् अस्ति ?

(iv) सर्वेषु समत्वेन का व्यवहरति ?

(v) कयोः प्रकाशः सर्वत्र समानरूपेण प्रसरति ?

(ग) यथानिर्देशं प्रश्नानाम् उत्तराणि लिखत –

(i) “मानवाः परस्परं न विश्वसन्ति ”अत्र कर्तृपदं लिखत। 

(ii) “इयं महती आवश्यकता वर्तते ” अत्र विशेष्यपदं लिखत।

(iii) ते परस्य कष्ंट स्वकीय कष्ंट न गणयन्ति, अत्र ‘ते’ इति सर्वनामपदस्य स्थाने संज्ञापदं लिखत।

(iv) ‘अधस्तात्’ इति पदस्य गद्यांशत् चित्वा विलोमपदं लिखत।

 

12. अधोलिखितपदयोः सन्धिविच्छेदं कृत्वा सन्धेः नामापि लिखत।

(i) स्वागतम्

(ii) दिग्गजः

 

13. अधोलिखितपदयोः सन्धिविच्छेदं कृत्वा सन्धेः नामापि लिखत।

(i) पो + अनः

(ii) रामः + च

 

14. अधोलिखितरेखाक्डिंत – पदेषु समस्तपदानां विग्रहम् अथवा विग्रहपदानां समासं कृत्वा समासस्य नामापि लिखत।

(i) रमेशः प्रतिवारं प्रयासं करोति।

(ii) असौ महाराजः अस्ति।

(iii) माता च पिता च गच्छतः।

 

15. अधोलिखितरेखाक्डिंत विभक्ति तत् कारणं च लिखत।

(i) ग्रामं परितः क्षेत्राणि सन्ति।

(ii) सीमा गीतया सह पठति।

(iii) नगरात् पृथक् आश्रमः अस्ति।

 

16. कोष्ठकेषु प्रदत्त – प्रकृत्तिप्रत्ययानुसारं शब्द – निर्माण कृत्वा रिक्तस्थानानि पूरयित्वा लिखत-

(i) प्रसन्नो बालकः ……………। (शंक् + शानच्)

(ii) …………………..गोपालः गच्छति। (पठ् + शतृ)

 

17. अधोलिखित वाक्ययोः रेखाक्डिंतपदेषु प्रकृतिं प्रत्ययं च पृथक् कृत्वा लिखत।

(i) ज्ञानवान् सर्वत्र पूज्यते।

(ii) चटका वृक्षे तिष्ठति

 

18. मन्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखत।

इव, तत्र, यथा, सहसा

(i) सूर्यः अन्गिगोलकः …………… प्रतिभाति।

(ii) यत्र गच्छति ……………. तिष्ठति।

(iii) कार्यस्त ………….. निर्णयं न करणीयम््।

 

प्रश्न संख्या 91-92 पर्यन्तम् अधोलिखितवाक्यानां वाच्यपरीवर्तनं कृत्वां लिखत।

19. त्वम् पाठं लिखसि।

 

20. रामेण पुस्तकं पठ्यते।

 

21. मया साधुः दृश्यते।

 

22. घटिकाचित्रस्य सहायतया अक्डंानां स्थाने संस्कृतशब्देषु समयलेखंन करणीयम्। (रिक्तस्थाने)

सीमा प्रातः ……………….. विद्यालयं गच्छति।

सा पुनः …………. गृहं आगच्छति।

 

23. अधोलिखितं वाक्यत्रयं शुद्धं कृत्वा लिखत।

(i) बालिकात्रयं प्रतिदिनम् उपवनं गच्छन्ति।

(ii) चनुष्पथे बलिवर्दाः कलहं करोति।

(iii) शिष्यः गुरूं निवेदयति।

 

24. भवान् राजकीय – आदर्श – उच्च माध्यमिक विद्यालय कचज्नपुरस्य दशम्याः कक्षायाः छात्रः सोमनाथः अस्ति।

           स्वविद्यालयस्य प्रधानाचार्याय आवश्यक कार्यवशात् पच्जदिनस्य अवकाशार्थं प्रार्थनापत्रं लिखत।

           भवान् रमेशः स्वकीयं पितरं प्रति स्वाध्यायविषये अधोलिखितपत्रं मन्जूषापदसहायता पूरयित्वा लिखत-

सम्यक्, अस्माकम्, भृशम्, विहाय, सादरम्, अन्यत्, न्यूनताम्, मातरम्।

जामनगरतः

दिनाक्डः 18 मार्च 2018

प्रमपूजनीयेषु पितृचरणेषु (i) …………. प्रणयतः सन्तु। भवतां पत्रमधिगतम्। समाचारान् अधीत्य में मनः (ii) ………. मोदतेतराम्। मईमासे (iiii)………. परीक्षा सम्पत्स्यते। सम्प्रति अध्ययनकर्म (iv)………… चलति। संस्कृतव्याकरणं (v)……….. सर्वेषु दक्षतामापन्नोडस्मि। व्याकरणस्यापि (vi)………… शीघ्रमेव अपनेष्यामि। (vii)…………….. प्रति में सादरं प्रणतयः। (viii)……… कुशलम्।

मन्जूषायाः उपयुक्तपदानि गृहीत्वा ‘चिकित्सालय-दर्शनम्’ इति विषये संवादं पूरयत-

तत्, त्वम्, पीडितः कुत्र, उपचारम्, के अस्ति, चिकित्सालयभवनम्

पुनीतः ‘ सुरेश! त्वं ………… गच्छसि ?

सुरेशः – पुनीत! …………. अति आगच्छ।

पुनीतः – अरे! ……….किं भवनम् अस्ति।

सुरेशः – तत् ……….. अस्ति। आवाम् अति मातुलं द्रष्टुं चलावः।

पुनीतः – सः केन रोगेण …………… अस्ति।

सुरेशः – सः उच्चरक्तचापेन पीडितः…………..।

पुनीतः – ते श्वेतप्रावारकधारकाः ………….. सन्ति। ते किं कुर्वन्ति ?

सुरेशः – ते चिकित्सकाः सन्ति। ते ………….. कुर्वन्ति

 

26. अधोलिखितषड्वाक्येषु केषाच्जन चतुर्णां वाक्यानां संस्कृतभाषायाम् अनुवादं लिखत-

(i) माता पुत्र को उपदेश देती हैं।

(ii) मुझे फल अच्छे लगते है।

(iii) तीन बालिकाएँ इधर देखती है।

(iv) कक्ष के बाहर शिक्षक है।  

(v) उसके बिना तुम नहीं जाते हो। 

(vi) उनके साथ सुनीता आई।

 

27. अधः चित्रं दृष्ट्वा मन्जूषायां प्रदत्तशब्दानां सहायतया संस्कृते षट् वाक्यानि निर्माय लिखत – 

बसयानम् धारयन्ति, छत्रम्, बालाः वर्षायाम्, आरोहन्ति

अथवा

अधोलिखितम् अनुच्छेदं मन्जूषायाः सहायतया रिक्तस्थानानि पूरयित्वा लिखत – 

श्रेष्ठः, पवन, प्रसृतः, वसन्त, उद्यानानाम्, षट्

(i) शीतलः………. मन्दं मन्दं प्रवहति।

(ii) सर्वत्र सुरभितकुसुमानां सुगन्धः अस्ति।

(iii) कुसुमाकरः समागतः अस्ति।

(iv) भारते ………… ऋतवः भवन्ति

(v) तेष्वयं वसन्तः अस्ति।

(vi) वसन्ते शोभा दर्शनीया भवति।

 

28. अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रमं संयोजनं कृत्वा लिखत – (कथा दृष्ट्या)

(i) एकदा कश्चित् प्रमत्तः गजः तत्र आगतवान्।

(ii) अथ सा चटका व्यलपत्।

(iii) चटकायाः नीडं भुवि अपतत्, तेन अण्डानि विशीर्णनि।

(iv) पुरा एकस्मिन् वने एका चटका प्रतिवसति स्म।

(v) कालेन तस्याः सन्ततिः जाता ।

(vi) वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *

×

Hello!

Click one of our representatives below to chat on WhatsApp or send us an email to info@vidhyarthidarpan.com

×