/ +91 9829211106 info@vidhyarthidarpan.com
Welcome to Vidhyarthi Darpan
SCIENCE CLASS 10TH QUESTION PAPER 2019 (RBSE)
January 20, 2020
SOCIAL SCIENCE CLASS 10TH QUESTION PAPER 2018 (RBSE)
January 20, 2020

RAJASTHAN BOARD EXAMINATION, 2019

CLASS 10th

SANSKRIT

समय: 3¼ घंटे                                                                                                                                                           अधिकतम अंक: 80


परीक्षाओं के लिए सामान्य निर्देश:-

1. सभी प्रश्न करने अनिवार्य हैं।

2. सभी प्रश्नों के अंक प्रश्न के सामने अंकित हैं।


संस्कृतम् 

1) अधोलिखितस्य पठित गद्यांशस्य हिन्दीभाषया अनुवादं लिखत |  स्वामिनो जीवनं सर्वपन्थ सद्धावस्य निदर्शनमस्ति । अयं हि जाट-जाती जातः, परं सिख्यगुरोः नानकदेवस्य पुत्रेण श्री चन्दनेन प्रवर्तिते उदासीसम्प्रदाये दीक्षितः । गुरू ग्रन्थस्योत्तमः पाठी अभूत् । एकादश वार्षिक-साधनया 700 पृष्टात्मकस्य सिक्खेतिहासस्य लेखन कारितवान् । विभाजनकालीने हिंसाचारे क्षताना मुस्लिमवन्धूनां चिकित्सा कारिता । 

अथवा 

मातृदेवो भव! पितृदेवो भव! आचार्यदेवो भव! अतिथिदेवो भव! यानि अनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि । यानि अस्माकं सुचरितानि तानि त्वयोपास्यानि नो इतराणि । श्रद्धया देवम् । अश्रद्धयादेयम् । श्रिया देयम् । हिया देयम् । भिया देयम् । संविदा देयम् । एषः आदेशः । एष उपदेशः । एषा वेदोपनिषद् । एतदनुशासनम् । एवमुपासितव्यम् । 

 

2) अधोलिखितस्य पठितपद्यस्य हिन्दीभाषया अनुवाद लिखत । 

मरू: सुवर्णो न हि येन दृष्टः 

किं तेन दृष्टं कुहचित् सुदृश्यम् ।

स्फुटं मरौ भान्ति सुमेरूश्रृङ्गाः 

शिलासु कृष्णासु न ते हि मृग्याः ।। 

वा 

परोक्षे कार्यहन्तारं प्रत्यक्षेप्रियवादिनम् । 

वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ।। 

 

3) अधोलिखितस्य पठित पद्यांशस्य संस्कृतेन व्याख्यां कुरूत । 

एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । 

स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ।। 

वा

त्वमसि शरण्या त्रिभुवनधन्या, 

सुरमुनि वन्दित चरणा।

नवरस मधुरा कविता-मुखरा 

स्मितरूचि रूचिराभरणा ।। 

 

4) अधोलिखितस्य नाट्यांशस्य संस्कृतेन व्याख्या कार्या ।  बाल :- जृम्भस्व सिंह! दन्तांस्ते गणयिष्ये ।  प्रथमा – अविनीत, किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विप्रकरोषि? हन्त, वर्धते ते संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि । द्वितीया – एषा खलु केसरिणी त्वां लवयिष्यति यदि तस्याः पुत्रकं न मुञ्चसि ।  बालः – (सस्मितम्) अहो, बलीय: खलु भीतोऽस्मि! (इत्यधरं दर्शयति) 

अथवा 

प्रताप :- अरे धिक् माम् । यदि अहं मातृभूमिं रक्षितुं न शक्नोमि, किमत्र बासेन मे प्रयोजनम्? (दीर्घ निःश्वसिति) (ततः प्रविशति कश्चन राजपुत्र-सर्वदारः)  सर्वदार :- (राजोचितं प्रणम्य) विजयतां विजयतां महाराजः ।  प्रताप :- (दीर्घ निःश्वस्य मुखम् उन्नमय्य च) हा धिक् । विजयध्वनिं कृत्वा त्वम् अपि किम् एवं मां लज्ज्यसे भ्रातः। सर्वदार :- प्राणाधार! किम् इदं भवान् वदति? स्वधर्माय भवता सर्व किम् अपि कृतम् । स्वाधीनतायै सर्वं किम् अपि सोढम् । भवतः सदा विजयः एव भविष्यति । 

 

5) अधोलिखितेषु अष्टसु षण्णां प्रश्नानाम् उत्तराणि संस्कृतेन लिखत ।  i) सर्वदमनस्य मणिबन्धे किम् आबद्धम् आसीत्?  ii) कस्तूरी कस्माद् जायते?  iii) लोकहितं मम करणीयम् इति गीतस्य रचनाकारः कः?  iv) पञ्चतन्त्रस्य रचना केन कृता?  v) अस्माभिः की दृशानि कर्माणि सेवितव्यानि?  vi) सर्वे प्राणिन: केन तुष्यन्ति?  vii) “संघेशक्तिः” इति पाठस्य कथा हितोपदेशस्य कस्माद् परिच्छेदात् सम्पादिता विद्यते? —  viii) काव्येषु किं रम्यम् उच्यते? 

 

निर्देश : – प्रश्नसंख्या 6-9 पर्यन्तं रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरूत ।  6) ततस्तं सो भूत्वा दशति ।  7) भवान् सत्यं वदति।  8) भवतः सदा विजय एव भविष्यति ।  9) मेघान् गगने अवलोक्य नन्दामि ।  10) प्रश्नपत्रमतिरिच्य स्वपाठ्यपुस्तकात् द्वौ श्लोको लिखत ।  11) अधोलिखितं गद्यांशं पठित्वा एतदाधारितप्रश्नानाम् उत्तराणि यथानिर्देशं लिखत ।  परेषाम् उपकारः परोपकारः उच्यते । “सर्वः स्वार्थ समीहते” इत्यपि कस्यचित् कवेः उक्ति: अस्ति । स्वार्थाय सर्वेऽपि प्राणिनः जीवन्ति । किन्तु यस्य जीवनम् अन्येभ्यः अस्ति, अपरेषां प्राणिनां सुखाय यः प्रयतते, कष्टं सहतेच, वस्तुत: तस्यैव जीवनं सार्थकम् अस्ति । पश्य, गावः अन्येभ्यः दग्धं प्रयच्छन्ति, अतः जनाः “मातर” इति वदन्ति । नदी अपि स्वजलं स्वयं न पिबति, अन्येषां प्राणिनां कृते ददाति | मेघान् पश्यत । स्वजलं सर्वेभ्य: वितरन्ति । पुष्पाणि सर्वेभ्यः सुगन्धं वितरन्ति । वृक्षाः फलानि प्रयच्छन्ति । मातृसमा उपकारिणी का विद्यते जगति? अतः स्वार्थ विहाय अन्येभ्य: जीवनमेव वरम् ।  क) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।  ख) यथा निर्देशं प्रश्नानामुत्तराणि लिखत ।       i) सर्वे किं समीहन्ते?      ii) का: अन्येभ्य: दुग्धं प्रयच्छन्ति?      iii) नदी किं न पिबति?      iv) किं वरं विद्यते?     v) किन्नाम परोपकारः?  ग) यथा निर्देशं प्रश्नानामुत्तराणि लिखत |     i) “वृक्षाः फलानि प्रयच्छन्ति” । अत्र कर्तृपदं किम् ? लिखत ।    ii) “स्वार्थाय सर्वेऽपि जीवन्ति ।” अत्र सर्वनामपदं किम् ? लिखत ।    iii) “मातृसमा उपकारिणी का विद्यते?” अत्र विशेषणपदं किम् ? लिखत ।    iv) “अत:स्वार्थ विहाय अन्येभ्य: जीवनमेव वरम् ।” अत्र विशेष्यपदं किम् ? लिखत । 

 

12) अधोलिखित पदयोः सन्धिविच्छेदं कृत्वा सन्धेः नामापि लिखत ।  i) महर्षिः  ii) शिवोऽहम् 

 

13) अधोलिखित पदयोः सन्धिं कृत्वा सन्धेः नामापि लिखत ।  i) गै+अकः  ii) शिवस्+च 

 

14) अधोलिखित रेखाङ्कित पदेषु समस्तपदानां विग्रहम् अथवा विग्रहपदानां समासं कृत्वा समासस्य नामापि लिखत ।  i) अहो! इदं तु विशालभवनं विद्यते ।  ii) भरतशत्रुघ्नौ प्रातरौ आस्ताम् ।  iii) दिन दिन प्रति योगाभ्यास: कर्तव्यः । 

 

15) अधोलिखित रेखाङ्कित पदेषु विभक्तिं तत् कारणञ्च लिखतः।  i) जलं विना जीवनं नास्ति ।  ii) पार्वती “नमः शिवाय” इति जपम् अकरोत् ।  iii) मन्दिरम् उपर्युपरि ध्वजः विद्यते । 

 

16) कोष्टके प्रदत्तप्रकृति प्रत्ययाभ्यां शब्द निर्माय वाक्यं पूरयत ।  i) श्रीधरः ……….. आसीत् । (धंन+इनि)  ii) ………. बाला: पाठं पाठयति । (शिक्षक+टाप) 

 

17) अधोलिखित वाक्ययो: रेखाङ्कित पदयोः प्रकृतिप्रत्ययौः पृथक् कृत्वा लिखत ।  i) सा बुद्धिमती अस्ति।  ii) शिवस्य पत्नी पार्वती अस्ति । 

 

18) मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखत ।   इतस्ततः, अधुनैव, वृथा, श्वः  i) अहं (i)………… देहलीं गमिष्यामि ।  ii) तृणानि (ii)…………….. विकीर्णानि आसन् ।  iii) वयम् (iii)………… कार्य सम्पादयामः । 

 

अधोलिखित वाक्यानां वाच्य परिवर्तनं कुरूत । (प्रश्नसंख्या 19-21 पर्यन्तम्)  19) जनः ग्रामं गच्छति ।  20) भगिन्या वस्त्रं प्रक्षाल्यते।  21) मया नगरं गम्यते । 

 

22) घटिका चित्र सहायतया संस्कृतेन शब्दैः रिक्तस्थाने समयलेखनं कुरूत ।  i) महेशः रात्रौ ……….. शयनं करोति । ii) “शताब्दी” रेलयानं ……….. जयपुरात् देहली गच्छति ।

 

23) अधोलिखितानि वाक्यानि शुद्धानि कुरूत ।  i) कृषक: प्रात: क्षेत्रस्य प्रतिगच्छति ।  ii) हट्टे त्रयः महिला: वस्तूनि क्रीणन्ति ।  iii) अहं रोटिका खादामि। 

 

24) भवान् राजकीयमाध्यमिक विद्यालय सुन्दर नगरस्य दशम्या कक्षायाः छात्र: नरेन्द्रः अस्ति ।  स्व विद्यालयस्य प्रधानाध्यापकाय अस्वास्थ्य कारणेन अवकाशार्थं प्रार्थना पत्रं लिखतु । 

अथवा 

त्वं स्वकीयं मित्रं प्रतिस्वपरीक्षासिद्धता विषये अधोलिखितपत्रमञ्जूषा सहायतया रिक्त स्थानानि पूरयित्वा लिखत । ।  परिजना:, विशेषकक्षां, सन्निकटे, कालः, प्राप्तुं निर्माय, अधीयान: सर्वदा  सुनगरम्  18 मार्च 2019  प्रियमित्र! कवीन्द्र!  कुशली सन् कुशलं कामये । मा. शि. बोर्डपरीक्षा (i) ………. वर्तते । अहं समयसारिणी (ii) ………… योजनया अधीयान: अस्मि । अधुना मम (iii) ……….. अपि मम सहयोगे रताः सन्ति । गुरव: सर्वोत्तमान् अङ्कान् (iv) ……… विद्यालये (v) ……… सञ्चालयन्ति । ममापि लक्ष्यं तदेव वर्तते । भवानपि योजनया एव (vi) ……… स्याद् । गतः (vii) ……… न पुनरायाति, इति सूक्ति (viii) ……… अपि स्मर ।  भवन्मित्रम्  – नरेन्द्र : 

 

25) मञ्जूषाया: उचितपदैः “वसतिस्वच्छता” इतिविषये संवादं पूरयत ।  नालीना, सुन्दर स्वच्छता, कदा, श्वः  वामतः, आरभ्य, त्वं  महेश : – निरञ्जन! (i) ……… रविवासरः, तव का योजना वर्तते?  निरञ्जन : – अरे (ii) ……… न जानासि? रविवासरे सर्वे मिलित्वा वसतेः स्वच्छता करणीयास्ति ।  महेश :- अहो! उत्तमः विचारः । सर्वेः श्व: (iii)……… गम्यते?  निरञ्जन :- प्रातः अप्टवादनाद् (iv)……… कार्यमिदं भविष्यति ।  महेश :- पूर्व कस्य भागस्य (v)……… करिष्यते?  निरञ्जन :- (vi)……… विद्यामानस्य अद्यस्य उद्यानस्य आदौ करिष्यामः ।  महेश :- तेन तद् रमणीयं (vii) ……… च भविष्यति ।  निरञ्जनः – (viii)……… स्वच्छता योजनायां स्वीकृता एव । 

 

26) आधोलिखितेषु षड्सु वाक्येषु केषाञ्चन चतुर्णा वाक्यानां संस्कृतेन अनुवादं कुरूत । i) महिला कुए से जल लाती है।  ii) तुम भी जाओ।  ii) दस बज गए है।  iv) मैं गणित व विज्ञान पढ़ता हूँ।  v) मित्र को दूध अच्छा लगता है ।  vi) मैं ज्ञानी हूँ। 

 

27) अधः प्रदत्तचित्रं दृष्ट्वा मञ्जूषायां प्रदत्त शब्दानां सहायतया संस्कृतेन षड् वाक्यानि निर्माय लिखत। शोभायात्रायाम्, फलकानि, संस्कृतदिनम्, पंक्तिः वदतु संस्कृतम्, आनन्देन  संस्कृतशोभायात्रा (रेली) का चित्र बनाना है, जिसमें छात्र-छात्राए लम्बी दो पंक्ति बनाकर चल रहे हो । छात्र-छात्राओं के हाथो में तख्तियाँ (बोर्ड) हो । सबसे आगे दो छात्रों ने बैनर पकड़ रखा । हो, जिसपर “संस्कृतशोभायात्रा” लिखा हुआ हो । 

अथवा 

मञ्जूषायां प्रदत्त शब्दानां सहायतया रिक्तस्थानानि पूरयित्वा अनुच्छेदं लिखत ।  शिवस्य. मनोहरः, पृष्टतः, निकषा, सुन्दराणि, तरन्ति  i) पर्वतस्य (i)……… ग्रामः अस्ति ।  ii) ग्रामे (ii)……… उपवनानि सन्ति ।  iii) मध्ये च भगवतः (iii)……… देवालयोऽस्ति ।  iv) पर्वतं (iv)……… एका नदी प्रवहति ।  v) ग्राम जना: नद्यां (v)………।  vi) ग्रामस्य विद्यालयः अतीव (vi)……… अस्ति । 

 

28) अधोलिखितवाक्यानि क्रम रहितानि सन्ति । यथा क्रम संयोजनं कृत्वा लिखत । (कथा दृष्ट्या)  i) नद्याः तटे फलोपेतः जम्बूवृक्षः आसीत् ।  ii) मकरः वानरेण पातितानि मधुरफलानि आस्वाद्य अचिन्तयत् ।  iii) तस्य शाखायां वानर: वसति स्म ।  iv) वानर: मकरस्थ प्रयासं वुद्धि चातुर्येण विफलीकृतवान् ।  v) एकदा एक: मकर: नद्यां वसति स्म ।  vi) “फलानि अतिमधुराणि” अत: वानर हृदयन्तु अतीव मधुरं स्यात् अत: वानर हृदयं खादामि । 

Leave a Reply

Your email address will not be published. Required fields are marked *

×

Hello!

Click one of our representatives below to chat on WhatsApp or send us an email to info@vidhyarthidarpan.com

×